कृष्णः कस्य देवस्य अवतारः?
a) विष्णुः b) शिवः c) गणेशः
विष्णुः
श्रीकृष्णस्य माता का (biological)?
a) यशोदा b) देवकी c) सत्यभामा
देवकी
जन्माष्टमी श्रीकृष्णस्य कस्य उत्सवः अस्ति?
a) जन्म b) कंसवधः c) मरणम्
जन्म
श्रीकृष्णेन उत्थापितस्य पर्वतस्य नाम किम्?
a) हिमालयः b) गोवर्धनः c) अनामुडी
गोवर्धनः
'कृष्ण' शब्दस्य अर्थः कः?
a) कान्तिः b) श्यामः c) प्रकाशः
श्यामः
महाभारते श्रीकृष्णः कस्य सारथिः आसीत्?
a) नकुलस्य c) अर्जुनस्य d) सहदेवस्य
अर्जुनस्य
कंसः श्रीकृष्णस्य कः आसीत्?
a) मातुलः b) भ्राता c) कोऽपि नास्ति
मातुलः
कस्मिन् मासे कृष्णजन्माष्टमी भवति?
a) भाद्रपदः b) श्रावणः c) आषाढः
भाद्रपदः
श्रीकृष्णस्य प्रियतमभोजनं किम्?
a) क्षीरम्-जलेबी b) दधि-नवनीतम् c) मोदक-लड्डुकम्
दधि-नवनीतम्
श्रीकृष्णस्य राज्यस्य नाम किम्?
a) मथुरा b) वृन्दावनम् c) द्वारका
द्वारका
श्रीकृष्णस्य जन्म कुत्र अभवत्?
a) गुहायाम् b) मन्दिरे c) कारागारे
कारागारे
श्रीकृष्णस्य प्रियतमा गोपी का आसीत्?
a) ललिता b) विशाखा c) राधा
राधा
एतेषु श्रीकृष्णस्य अपरं नाम किम्?
a) कर्पूरगौरः b) गिरिधरः c) लम्बोदरः
गिरिधरः
कः असुरः बकस्य (stork) रूपं धृत्वा कृष्णं मारयितुम् आगतः?
a) तृणावर्तः b) अघासुरः c) बकासुरः
बकासुरः
श्रीकृष्णः गोपीभिः सह किं नृत्यं कृतवान्?
a) गोपीलीला b) रासलीला c) कृष्णलीला
रासलीला
श्रीकृष्णः कस्याः नद्याः तीरे स्वबाल्यकालम् यापितवान्?
a) गंगा b) यमुना c) कृष्णा
यमुना
श्रीकृष्णस्य भगिन्याः नाम किम्?
a) द्रौपदी b) उत्तरा c) सुभद्रा
सुभद्रा
श्रीकृष्णाय कस्य पत्रं समर्प्यते?
a) दूर्वा b) तुलसी c) बिल्वपत्रम्
तुलसी
श्रीकृष्णस्य बाल्यकालस्य दरिद्र-ब्राह्मण-मित्रं कः आसीत्?
a) युधिष्ठिरः b) सुदामा c) नन्दः
सुदामा
श्रीकृष्णः बलरामः च कस्य गुरुकुले पठितवन्तौ?
a) सान्दीपनि-ऋषिः b) गर्ग-ऋषिः c) व्यास-ऋषिः
सान्दीपनि-ऋषिः
श्रीकृष्णस्य शङ्खस्य नाम किम्?
a) देवदत्तम् b) पाञ्चजन्यम् c) मयादानवम्
पाञ्चजन्यम्
एतासु का श्रीकृष्णस्य पत्नी नासीत्? a) राधा b) रुक्मिणी c) सत्यभामा
राधा
श्रीकृष्णः स्वर्गात् कं वृक्षं पृथिवीम् आनीतवान्?
a) तुलसी b) पारिजातः c) नारिकेलः
पारिजातः
गरुडात् रक्षणाय श्रीकृष्णः कालियनागस्य मस्तके किं चिह्नम् अकरोत्?
a) स्वपादचिह्नम् b) सुदर्शनचक्रम् c) स्ववेणुम्
स्वपादचिह्नम्
श्रीकृष्णः कतिभिः दिनैः १४ विद्याः ६४ कलाः च शिक्षितवान्?
a) ६४ दिनैः b) ७८ दिनैः c) ८४ दिनैः
६४ दिनैः